________________
केशवकृतः कल्पद्रुकोशः कपिञ्जलोपि हारीतस्तञ्जलो जिनपत्रिका । जतूका' जतुकापि स्यात्परोष्णी तैलपाप्यथ ॥१४७॥ गोप्रेरको भृङ्गराजी द्विपुच्छायो वनप्रियः । सुचूडशीर्षो वाचालः सत्यवाक स्यादथापरः ॥१४८॥ भृङ्गः कलिङ्गो धूम्याटोप्यथ स्यादारुणोऽस्त्रियाम् । काष्ठ 'कूटः कर्वराङ्गो दार्वाघाटोऽथ खञ्जनः ॥१४॥ खञ्जरीटः' कणाटीनो मुनिपुत्रश्च तातलः । काकच्छदः कणाटीरः शिखादृश्यस्त्रिशङ्ककः॥१५०॥ शेवधिस्थान सुरतो भद्रार्थः खण्डलेखकः । व्याघ्राटस्तु भरद्वाजो दीदिविस्तु किकीविकः ॥१५१॥ किकीदिविः स्वर्णचूडो नन्दिवर्द्धन इत्यपि । विशोकः स्वस्तिकश्चाषश्चित्रवाजोऽपराजितः ॥१५२॥ मणिकण्ठो महायोगी नीलाङ्गः पुण्यदर्शनः । कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥१५३॥ कुलिङ्गश्चटका तत्स्त्री पुमपत्ये तु तद्भवे ।
चाटकैरस्त्र्यपत्ये तु चटकाप्यथ वर्तिका ॥१५४॥ 'गांजीकायो वर्त्तकोऽपि वर्ती कुब्जस्तु धूसरः । अरण्यचटको भूमीशयस्तु स्वल्पसंचरः ॥१५५॥ १ जतूकेत्यर्धक पुस्तके नास्ति २ तैलपायिकाB ३ कुट्टःB ४ खञ्जरीटइत्यर्धद्वयंB पुस्तके नास्ति ५ सेवधिk ६ खेलकइति स्यात् ७ किकीदिविःCk: ८ केरB गोजिकायोk
कांजीकायाB