________________
केशवकृतः कल्पद्रुकोशः ३३१ भूरिप्रेमा द्वन्द्वचारी रथाङ्गो राविषोऽपि च । कामी सहायो गोनर्दः कान्तोऽथ मणितारकः ॥१०॥ अथ हंसस्तु चक्राङ्कश्चक्राङ्गो वरटश्च सः । श्वेतपक्षो मानसौका मोक्तिकाशन इत्यपि ॥१२१॥ राजहंसः सितो रक्तरक्षिचञ्चुपदैः पुनः । मलिकाक्षो' मल्लिकालो मल्लिको पिचधूसरैः ॥१२२॥ सितेतरैर्धार्तराष्ट्रा मरालो धूसरच्छदः।। कादम्बः कलहंसः स श्यामधूसरपक्षकः ॥१२३॥ अभव्यः स च हंसः स्यादथ लक्ष्मणसारसौ। लक्ष्मणो रसिकः कामी काकुवाकामिवल्लभः ॥१२४॥ नीलकण्ठः पुष्कराह्वो लक्ष्मणा लक्षणापि च । लक्षणी लक्ष्मणी च स्याद्गन्धोली वरटा द्वयोः ॥१२५॥ तद्वद्धंसी च चक्राङ्गी चकाङ्की मृदुगामिनी । गन्धोलिरपि गन्धाली वराला वारलापि च ॥१२६॥ वरला वारटी चापि वरटी च स्त्रियामिमाः। ये प्लवा एव ते सर्वे विज्ञयाः क्षुद्रसारसाः ॥१२७॥ ते श्वेतचित्रधूम्राद्यनामान्त्याः स्युरनेकशः । सरावान् पद्मनेत्रश्च पद्मकन्दाद इत्यपि ॥१२८॥ १ मल्लिकाचोBK २ मल्लिकाख्योB ३ लक्षण इति स्यात् ।