________________
३३० केशवकृतः कल्पद्रुकोशः तीर्थसेवी मृषाध्यायी मीनघाती शिखी पुनः । कङ्करुनिश्चलाङ्गः स्याद्वाकश्चन्द्रबिहङ्गमः ॥१११॥ स्त्रीदत्तवलिभुक चाथ वलाका 'विषकण्ठिका । शरारिरारिराटिश्च शरार्यायतिरित्यपि ॥११२॥ शरालिश्च शराली च पुरुषत्वे स्त्रियामिमे । वलाहका वकेरुः स्त्री मेघानन्दा जलाश्रया ॥११३॥ धर्मान्तकामुकी श्वेताथोत्क्रोशो मत्स्यनाशनः । कोयष्टिष्टिटिभष्टिष्टिः कुररो जलकुक्कुटी' ॥११४॥ कारण्डवः काकवक्तो दीर्घाचि : कृष्णवर का । प्लवो महाप्रमाणः स्यात्प्रसेवक गजश्च सः ॥११५॥ मृणाल कण्डःकाकस्तु वलाकः स्यादथापरः । श्राटीभेदे तु पत्राटी स्यान्नान्दीमुख इत्यपि ॥११६॥ कुलवारी लघुश्चित्रवर्णश्चित्राङ्गदोप्यथ । मद्गुस्तु जलकाकः स्यादथान्या जलकुक्कुटी ॥११७॥ कृष्णवर्णाथ काचाक्षो मल्लिकाक्षः कपर्दिका । श्राकाशे सुचिरं भ्रान्त्वा जले पतति लोष्टवत् ॥११॥ शुक्लाक्षः शुक्लशवलोप्यारी त्वारामुखी पुनः । चक्रः कोकश्चक्रवाको निट्पर्यायवियोग्यपि ॥११६॥ १ विसकण्ठिकेस्यन्यत्र २ कुक्कुटिःB ३ दीर्घाद्रिःB ४ गत ५ कण्डूCk
प्रारीB७ कार्कतोK