________________
केशवकृतः कल्पद्रुकोशः
३२६
स्वैरिणी चाथ सैवाल्पा जतुकी गृह' माचिका । भांकारी चर्म चटिका सैवेोक्ता विषसृकिका ॥१०२॥ अपिच्छाथ मयूरस्तु चन्द्रकी गरलव्रतः । गुरुमार्जारनीलेभ्यः कण्ठः केकी शिखाबलः ॥ १०३ ॥ भुजङ्गभेोजी पत्राड्यः शुक्लापाङ्गः शिखण्ड्यपि । चित्रपिच्छः कलापी च मेघमत्तः शिखी ध्वजी ॥१०४॥ प्रचलाकी बर्हिणापि वहीं तिलशिखीति च । मेघनादानुलासी स्याच्चित्रमेखल इत्यपि ॥ १०५ ॥ कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् । शिखण्डी च शिखण्डे ना नेत्रं षण् चन्द्रिका स्त्रियाम् १०६ प्रचलाकः शिखा चूडा मेचकः पुंसि तद्ध्वनौ । "केकाथा 'पस्वरः क्रौञ्चः क्रुङ् स्यात्पङ्क्ति 'चरः पुनः ॥ शरत्पक्षी वक्रचञ्चूरक्तको रात्रिजागरः । " शेवलादः पुण्डरीकनयना लोहिता तु या ॥ १०८ ॥ रोहिणी स्याल्लोहिताङ्गाप्यथोत्क्रोशः स्त्रियां पुमान् । कुररः खरशब्दः स्यान्नीलक्रौञ्च । तिजागरः ॥ १०६॥ दीर्घग्रीवश्च नीलाङ्गो वस्तु शुक्लवायसः । कोटस्तापसः कङ्कस्तीर्थजङ्घा निशान्तकः ॥११०॥
१ माविका B २ वटिकाk ३ तद्धनाCK ४ ककाCK ५ पि सरः B ६ चरेCK ७शवलादः Ck
४२