________________
३२६ केशवकृतः कल्पद्रुकोशः 'पिपीलिका तु हीनाङ्गी बलिष्ठा सिचिनी च सा । अपि योजनगन्धज्ञा तदभेदाः स्युरनेकशः ॥७५॥ कृष्णादिवर्णभेदाच्च गतिभेदादथापराः । घृतेंड्यः पिङ्गकपिशास्ताः शुभाशुभसूचकाः ॥७६॥ उदंघाः कपिजडाकास्ताः स्युस्तैलपिपालिकाः । शिथिल्यो घृतमल्ल्यस्तु वृक्षपत्रपुटाश्रयाः ॥७७॥ पिशङ्ग रक्तकृष्णाङ्ग्यस्ताः सर्वा मधुरप्रियाः । महाङ्गास्तेपि पुंसि स्युर्मत्कुण मञ्चकाश्रयः ॥७॥ उद्देशकश्चोत्कुणः स्याद्रक्ताङ्गो रक्तपाप्यपि । उकात्कुणश्चाथ पुनश्चञ्चुलश्चञ्चलः प्लवः ॥७॥ अथ पत्ररथः पक्षी द्विजो नीडोद्भवः खगः । पत्री पतत्री विहगो विहङ्गः पत्रवाहनः ॥८॥ वृक्षपर्यायसद्मार्थो नभसोर्थादगमार्थकः । पतङ्गः पित्सन् शकुनिः शकुनो विविहङ्गमः ॥८१॥ पुगः६ शकुन्तः कण्ठाग्निरण्डजो रसनारदः । लोमकी कीकसमुखो नाडीचरण इत्यपि ॥२॥ विकिरो विष्किरः पत्रिन गौंकाश्च नगौकसा । शरडश्च सरण्डोपि पतगश्च वयो द्वयोः ॥८३॥
१ पिपीलिकाB २ ज्ञास्तभेदा इति सर्वत्र पाठः ३ घृतेंम्रःB ४ उदंद्या:Ck ५रकाःB रकाCK ६ युगःB ७ नगौकसःBO