________________
केशवकृतः कल्पद्रुकोशः ३२५ सूचीरोमा पीलुवासो बहुरूपश्च मण्डली। विरूपी चार्थपल्ली तु मुशली गृहगोधिका ॥६६॥ माणिक्या भित्तिका ज्येष्ठा गृहोली च विसंवरा । द्वयोः कुड्याच्च मत्स्यार्था गृहगोधा गृहान्तिका ॥६७॥ मुशली मुषली चाथ तन्तुवायस्तु वायकः । ऊर्णनाभश्चोर्णनाभि' ठूतामर्कटकः कृमिः ॥६८॥ अष्टापदो मर्कटी च जाली तज्जालके पुमान् । 'श्राशाबन्धस्तद्विभेदास्तेषां भेदाश्च भूरिशः ॥६६॥ विषस्वेदा मर्कटी स्यादजीलाका हलाहलः । विक्रकीटास्तत्प्रभेदा बहवोप्यथ वृश्चिकः ॥७॥ द्रोणोलिब्रश्चनः शूककीट आलिरली पुमान् । आली द्रुणोऽथ तत्पुच्छकण्टकेऽलमनव्ययम् ॥७१॥ कारस्कराटिका कर्णजलोका शतपाद्यपि । कर्णाजलौकः शतपाद्भीरुः शतपदी स्त्रियाम् ॥७२॥ नीलङ्गुरपि नीलायश्चित्राङ्गी "कृमिवत्कृमिः । वम्युपाजिह्विका दीका दिका गेही च "सीमिका ॥७३॥ कम्बलाशिन्यपि चटिरुपपाद्युपदी दिविः । वल्मीककारिकोद्गेही देवप्राप्तवरा च सा ॥७॥
१ लता २ अंशावन्धल अशाबन्धk ३ चक्रB ४ काःB ५ भूमिवत्कृमिःB ६ पार्जितक्यB ७ सीसिकाB