________________
केशवकृतः कल्पद्रुकोशः
महामूषस्तु मूषी स्यान्महाङ्गो भित्तिपातनः । विघ्नेशाश्वः शस्यमारी' भूकलो गिरिसंभवः ॥ ५७॥ नेकवर्णो वनजो गिरिका बालमूषिका । स्यात्स्वल्पा लम्बतुण्डा तु शुण्डिनी शुण्डिमूषिका ॥ ५८ ॥ सुगन्धिमूषिका लुच्छ्रर्गन्धाढ्या प्रतिमूषिका । छुच्छुन्दरी राजपुत्री पुच्छलोमा तु वृत्तिकः ॥ ५६ ॥ वृक्षोन्दरस्त्रिरेखः स्यान्निहाका तु द्विजिह्विका । दारुमुख्याया गोधा गोधिकाऽण्डसमुद्भवा ॥६०॥ त्रिविधा सा स्थूलमध्यसूक्ष्माङ्गा स्यात्तदङ्गजे । कृष्णसर्पात्समुत्पन्ने तत्रैव च चतुष्पदे ॥६९॥ गौधे रोपि च गौधारो येन दष्टा न जीवति । तृणाञ्चनः क्रकचपात् कृकलासो हलाहलः ॥६२॥
३२४
४
* वृतिस्थः सरटश्चित्रकालश्चापि द्रुमाश्रयः । श्रपि स्यात्कण्टकगृहः प्रतिसूर्यः शयानकः ॥ ६३ ॥ दुरारोहो मरुभवे संडाको वन संभवे ।
६.
' सुकंपनोऽतिनीलोथा अनिकाप्यञ्जनःधिका ॥६४॥ हालिनी तत्र स्थूलायां ब्राह्मणी रक्तपुच्छिका । जाहको गात्रसंकोची सर्पारिः कामरूप्यपि ॥६५॥
१ भूकुला २ वृत्तिकाः ४ ३ दृष्टो ४ वृत्तिस्थ इति पाठः सर्वत्र ५ थ ६ सकरूपने B