________________
केशवकृतः कल्पद्रुकोशः
ध्वजातिभारगो मिश्रशब्दोऽप्यथ महामृगाः । वराहमहिषन्यङ्कुरुरु रोहितवारणाः ॥३०॥ समरश्चमरः खड्गो महिषो' हरिणस्तु सः । चारुनेत्रस्ताम्रमृगः सारङ्गः प्रियकः पुनः ॥३१॥ वातायुः कृष्णसारस्तु कलमः कृष्ण इत्यपि । गोप्यथ पुनर्न्यङ्कुर्वङ्कणो मृगसंनिभः ॥ ३२ ॥ देहेन बहुशृङ्गाग्रो मेघान्ते त्यजति स्वयम् । शृङ्गं रौति रुरुस्तेन साम्भस्तटचरः सदा ॥ ३३॥ तेनासौ शम्बरादन्योऽथो रामः पुरुषप्रभः । विकटोबद्ध शृङ्गो महाशृङ्गो वनप्रियः ॥ ३४॥ भारशृङ्गोऽपि बिन्द्वङ्गः शम्बरोऽथ महाजवः । वातप्रमीर्वातमृगो जङ्घालो जाङ्घिकश्च सः || ३५॥ कालपुच्छश्च सीत्कारश्छिंकारो जवनः पुनः । श्रपि स्याद्वेगिहारिणः शिखिरूपोऽथ चित्रलः ॥३६॥ शृङ्गः शाखी च सारङ्गः कुकुवागथ रोहितः । वर्णाभ्यां ताम्रकृष्णाभ्यां युक्तः स चतुरोप्यथ ॥३७॥ अधोनिः कान्तदशनः करालो भषणाकृतिः । रोमभिर्विरलैः स्वल्पैर्युतः कस्तूरिकामृगः ॥ ३८ ॥
१ माहिषोB २ पुमान्यकुB ३ भेदेन बहुशृङ्गामौ ४ स्तस्वचर: B प्रो बहुवी B
४१
३२९
२. विका