________________
३३० केशवकृतः कल्पद्रुकोशः
गन्धपर्यायमार्जारः खट्टाशोथ' विलम्बिताः । गज उक्तो, गणोत्साहो वज्रचर्मा च गण्डकः ॥२१॥ खड्गो वाध्रोणसः क्रोडी मालशृङ्गो वलीत्यपि । खड्गी शूरोप्यथोष्ट्रोग्रे प्रोक्तो, गौमहिषोऽपि च ॥२२॥
वनगौर्वलभद्रोऽपि स्यान्महागव इत्यपि । तथैव स्याद्भिल्लगवी तस्य स्त्री चमरस्तु सः ॥२३॥ व्यजनी वन्यगौलधिप्रियोप्यथ तस्त्रियाम् । गिरिप्रिया तु चमरी दीर्घबालाथ शूकरः ॥२४॥ सूकरो रोमशो दंष्ट्री बहुसत्त्वः किरिः किटिः । रदपोत्रायुधः कोलः शूरो बहुतरस्वरः ॥२५॥ वली दन्तायुधः कोडः स्तब्धरोमा जलप्रियः । वराहः सूरिको घृष्टिः सूचीरोमा बहुप्रजः ॥२६॥ घोणान्तभेदनो घोणी कुमुखो वज्रवल्कलः । लाङ्गलास्यो दीर्घरतो मुस्तान्नः स्थूलनासिकः ॥२७॥ श्रदन्तो वक्रदंष्टः स्या दाखनिाम सूकरः । ग्रामीणो विड्वराहोऽपि विष्ठालु रुकश्च सः ॥२८॥ अथ दूतास्तत्र हयः प्रोक्तः, स्यादथ वेसरः । सकृद्गर्भोऽश्वावरजः संतुष्टो मिश्रजः क्षमी ॥२६॥ खदाशोCK २ विलम्बिताB ३ वनगै ४ मा ५ प्रदतोB ६ वक्त
दाखानिB