________________
केशवकृतः कल्पद्रुकोशः ३१६ भल्लो भालश्च 'भालूक भृक्षोप्यथ मृगादनः । तरुक्षुश्च तरक्षः स्याद्घोरदर्शन इत्यपि ॥१२॥ शृगालो वञ्चकः क्रोष्टा मृगालो मृगधूर्त्तकः । गोमायुभूरिमायः स्यात्फेरवो पोरवासनः ॥१३॥ पारूरवः पेरवोपि पेरुः फेरुश्च जम्बुकः । जम्बूको वनमत्तः स्याल्लोपाशो वनकुक्कुरः ॥१४॥ शालावृकः शिवालुः स्यात्फेरण्डो व्याघ्रनामकः । स्त्रियां शिवा दीप्तजिह्वा फेरवा पोरवाशिनी ॥१५॥ लोपाश्युल्कामुखी गण्डिः साल्पा खोल्का किखिः पुनः। भोवाकी पूतिकेश्याह्वा नखिनो' लग्नमैथुनाः ॥१६॥ तेऽपि स्युः श्वाषदाः सर्वे कोकस्त्वीहामृगो वृकः । स्यागोवत्सहुडिच्छागनाशनोऽपि जलाश्रयः ॥१७॥ वनार्थभषणार्थो"थ पुनः स्यादीप्तलोचनः । स च स्यान्मूषकारातिर्मायावी रात्रिचार्यपि ॥१८॥ जाहकः कुन्दमो ह्रीकुर्विडालो वृषदंशकः । मार्जार श्रोतुस्तभेदा देशभेदादथापरः ॥१६॥ वनेचरो लम्बमुखो वृक्षावासोऽथ लोमशः । सुगन्धिमूत्रः पूतीकस्तपनो "मारजातकः ॥२०॥
१ भालकोBOK २ तरतु:B ३ गण्डिरित्यक्षरद्वयंCK पुस्तकयो स्ति। कोल्हाCk ५ मखिमी लग्नमैथुनाB ६ वत्सोB ७ भक्षणार्थोपिB ८ कदमोद्वीकु , पूषवंसकः
बैज १० नारा