________________
३१८ केशवकृतः कल्पद्रुकोशः वनपर्वतयोरा निवासार्थोष्टपादपि । उष्ट्राकृतिश्चाथ सिंहः पञ्चास्यः केसरी हरी ॥३॥ हर्यक्षः केशरी मानी नखी मृगपतिर्हरिः । कण्ठीरवः पञ्चशिखः शैलाटो भीमविक्रमः॥४॥ पलंकषो महानादः पारीन्द्रो नखरायुधः । अगोकाश्च नौकाश्च केसरी करिमाचलः ॥५॥ गन्धोष्णीषो व्यादितास्यो वनराजो गणेश्वरः। हस्तिपर्यायशवर्थो नभःकान्तः सकृत्प्रजः ॥६॥ रक्तजिह्वो महावीरो दशमीस्थः सुगन्धिकः । तथैव श्वेतपिङ्गश्च श्वापदो गर्जितासहः ॥७॥ द्विपः पञ्चशिखश्चाथ नादेप्यस्य मरुत्प्लवः । 'नकारोऽपि च चूत्कार स्त्रियां वेडाथ भीरुकः॥८॥ व्याघ्रः पञ्चनखो व्याडः शार्दूलोऽपि गुहाशयः । तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी द्वीपिल इत्यपि ॥६॥ चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । व्याघ्यां चित्रेण संजातः कलव्याघ्रोथ भल्लुकः ॥१०॥ दुर्घोषो भल्लुको भल्लो भालुकः पृष्ठदृष्टिकः । द्राधिष्ठायुर्दीर्घकेशो भाल्लको भल्लकोऽपि च ॥११॥
१ त्रिष्वासार्थोCK २ केशरोCK ३ त्यादितास्योB ४ वैयर्थोB ५ द्विप ६ नादोB • चुकारो ८ चूका (क) रो। ६ भालुक:B १० भालो। ११ भालको भल्लु को