________________
केशवकृतः कल्पद्रुकोशः
श्रावणी पाण्डुराभासा महाश्राविणिलक्षणा । गोलोमी चाजलामी च लोमशे कन्दसंभवे ||६०३ || हंसपादी व विच्छिन्नैः पत्रैर्मूलसमुद्भवैः । श्रथवा शंखपुष्प्या तु समाना सर्परूपतः ॥ ६०४॥ वेगेन महता विद्यात्सर्पनिक संनिभा । एषा हैमवती नाम जायते साम्बुदये || ६०५ ।। सप्तादौ सर्परूपया बाह्यौषध्यः प्रकीर्त्तिताः । तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा || ६०६ || महेन्द्रराजकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा चैव प्रशाम्यध्वं शिवाय च ॥ ६०७ ॥ मन्त्रेणानेन मतिमान्सर्वमप्यौषधं 'जपेत् ॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ॥ वनौषधिप्रकाण्डोऽयं दशमः सिद्धिमागतः ॥ ६०८ ||
३१७
२
थ प्रसह्यास्तत्रादौ सरभस्तु ? महामृगः । उत्पादको महास्कन्धः सिंहशत्रुर्महामनाः ॥१॥ लण्डलश्चार्ध्वनयनो रामाष्टापद इत्यपि । महाशृङ्गी मनस्वी च मृगेन्द्रश्चतुरूर्ध्वपात् ॥२॥
१ जयेत् B २ शरभ इत्यभ्यत्र ।