________________
३१० केशवकृतः कल्पद्रुकोशः
सुरमेदा महाच्छिद्रा ' वृद्धार्हाप्यथ बुद्धिदा । सिद्धा योग्या जीवदात्री लोककान्ता रथाङ्गयपि ॥५४२॥ जीवश्रेष्ठा यशस्या स्त्री चेतनीया सुखं च मुत् । संपञ्जनेष्टा २ भूत्यर्था भूतिश्चापि प्रसारिणी ॥५४३॥ "नारुपी राजबला सारिणी प्रसरा सरा । प्रतानकी भद्रपर्णी स्याइल्या राजपयेथ ॥५४४॥ धूम्रपत्रा तु धूम्राह्वा सुलभा गृध्रपत्रका । द्वयोः पाषाणभेदः स्यात् श्वेतः शैलसमुद्भवः ॥५४५॥ इरावती तु खटवाङ्गा गोधा गोधावतीत्यथ । श्वेतान्या सा शिलाचका शिलात्वक सप्तनासिका ॥५४६ शिलाजा वल्क' लाभाथ जुद्रपाषाणभेदकः । रश्मिकेतुश्चतुःपत्री पार्वती कन्दरोद्भवा ॥५४७॥ नागभूरथ भृङ्गेष्टा गृहकन्या स्थलेरुहा । कुमार्यर्था दीर्घपत्रा बहुपत्राऽमराऽजरा ॥४८॥ कण्टकप्रावृता वीरा ब्रह्मनी विपुला श्रवा । कपिला तरुणी रामा मृद्वी स्यादम्बुधिस्रवा ५४६॥ बर्हिचूडा तु शिखिनी शिखालुः सुशिखाप्यथ । क्षीरिणी काञ्चनक्षीरी कर्षिणी पटुपयेपि ॥५५०॥ . वृक्षाBि २ लक्ष्म्यर्थाB ३ थB४ नारूB १ पर्णा B ६ स्यादन्याB ७ पुत्रका ८ खट्वाङ्गीB | भाB