________________
केशवकृतः कल्पद्रुकोशः ३०६ 'हुडरोमाप्यथ क्षुद्रनुपास्तत्राथ पर्पटः । तृष्णारिश्चरको रेणुः कल्पाङ्गो वरकोरकः ॥५३३॥ शीतः शीतप्रियः पांशुः सुतिक्तो बहुकण्टकः । कृशशाखा' रक्तपुष्पः पित्तारिः कवचः पुनः ॥५३४॥ जीवको जीवनो जीव्यः शृङ्गाख्यः प्राणदः प्रियः । ३चिरजीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥५३५॥ ह्रस्वाङ्गो जीवदो वृद्धिप्रदो धीरस्तु दुर्द्धरः । गोपर्यायपतिः कामी गोरक्षो गोपतिश्च सः ॥५३६॥ भृक्षः प्रियोऽथ श्रमणा भिन्नुः ५ श्रवणशीर्षकः । शुण्डिनी श्रावणी चाथ महामुण्डी तु लोचनी ५३७ कदम्बपुष्पा विकचा कोडघोरा पलंकषः । स्यान्महाश्रावणी मुण्डा भूनदीभ्यां कदम्बका ॥५३८॥ मुण्डा छिन्ना ग्रन्थिनिका माता लोभन्यलंबुषा । स्थविराथ मणिच्छिद्रा शल्यपर्ण्यपि जीवनी ॥५३६॥ मेदावती मेदसारा मेदिनी मधुरा वरा । स्निग्धा मेदोद्भवा साध्वी शल्यदा बहुरन्धिका ॥५४॥ जीवनी तु महामेदा देवेष्टा पांशुरागिणी । वसुच्छिद्रा देवगन्धा दिव्या देवमणिश्च सा ॥५४१॥
हुडB २ शाकोB ३ चिरंB४ हस्वाङ्ग इत्याद्यर्धत्रयं B पुस्तके नास्ति ५ प्रवणCk ६ मुण्डिनीति स्यात् ७ पोराB ८ दिव्यCk