________________
३०८ केशवकृतः कल्पद्रुकोशः जीवन्ती बहुवल्ली स्यादथ नील सिताञ्जनी । अञ्जनी रेचनी काली कृष्णाभाप्यथ सारिणी ॥५२५॥ कर्पासी वदरी वर्ध्या समुद्रान्ता मरूद्भवा । तुला पिचुडोपि स्याद्वादरस्तुण्डकेरिका ॥५२६॥ वनजारण्य कार्पासी भारद्वाज्यथ ' शृङ्खली । वज्रास्थि शृङ्खला वज्रकण्टकः कोकिलाक्षकः ॥२७॥ इक्षुरिक्षुरकोवन पिच्छिला कापिशेक्षणः । इक्षुगन्धा सप्तला स्याफेनादीप्ता विषाणिका ॥५२८॥ स्वर्णपुष्पी पत्रघना बहुफेनापि सारिवा । विमला बिन्दुला'' कामवृद्धिस्तु मदनायुधः" ॥५२६॥ जीवो जितेन्द्रियः कामी दद्रुघ्नस्तु प्रपुन्नटः । चक्रमर्दः प्रपुन्नाटः पुन्नाटः शुकनासिकः ॥५३०॥ दृढबीजस्तरवटः खर्जूनोऽण्डगजश्च सः।.. स्यान्मेघगजचक्राणां नामा चक्रगजः पुनः ॥५३१॥ व्यावर्त्तकश्चैडगजो झिम्भिरीटातु झिम्भिरा । पीतपुष्पा कण्टफला वृत्ताश्रयफला च सा ॥५३२॥
१ शिताCk २ वच्याB ३ कारियाB ४ कांसी ५ शङ्खली ६ वज्रास्थिः Ck ७ वज्रपिच्छिकालापिशेक्षण:B ८ सूल्पलाB ६ पुष्पा पत्रधनाB १० विदुलाCk ११ मर्दनाB १२ झिमिरीB