________________
३०४ केशवकृतः कल्पद्रुकोशः शीतपुष्पाथ' खर्वा स्यात्वरगन्धा चतुःफला ।' भद्रादनी विश्वदेवा देवदण्डा गवेधुका ॥४६१॥ घाटा नागबलाऽभीष्टा महतः स्युः परा इमाः । शाखा पत्रा फला गन्धा महाराष्ट्री तु शारदी ॥४६२॥ मत्स्यादनी मत्स्यगन्धा प्राणदा तोयवल्लरी । अग्निज्वाला चित्रपत्री लाङ्गली जलपिप्पली ॥४६३॥ वाराहकर्णी तुरगी कञ्चुकाऽश्वावरोहिका । अश्वगन्धाथ वनजा गन्धपत्री हयप्रिया ॥४६४॥ वाजिनी पुष्टिदा पुष्टा श्यामला कामरूपिणी । पलाशपर्णी बलदा वातघ्नी धीवरापि च ॥५६५॥ कालप्रियकरी वन्या वराहपत्रिका च सा । हपुषा' विपुषा विस्रा विगन्धाऽथापराजिता ॥४६॥ कच्छप्लीहविषध्वाह्ननाशिनी स्वल्पतः फला । शतावरी शतपदी पीवरी दीवरी वरी ॥४६७॥ वृष्या दिव्या दीपिशत्रुर्वीपिका वरकण्टकी । नारायणी सूक्ष्मपत्रा शतह्वा सुरसापि च ॥४८॥
ल्पखर्वा स्यात् वरगन्धाB २ दाना विश्वदेवीB ३ महत्तःB ४ पत्रB ५ वराह ६ कम्बुकाष्ठावरोहिकाC कम्बुः काष्ठावरोहिकाB ७ हपुषीB ८ कच्छूती हविषाB । इन्दीवरी प्रम १० द्वीप