________________
२६८ केशवकृतः कल्पद्रुकोशः ताली तमाली ताम्रा च सूक्ष्मवल्ली पटुस्तु सः । नासासंवेदनः काण्डकटुः काण्डीर इत्यपि ॥४३७॥ करवल्ला तोयवल्ली सुकाण्डश्चाथ जन्तुका । बहुपुत्रा जन्तुकारी जननी चक्रवर्त्तिनी ॥४३८॥ तिर्यक्फला राजवृक्षा निशान्धा च सुपुष्पिका । कपिकच्छुकरोमापि' जनेष्टा सूक्ष्मवल्ल्यपि ॥४३६ ।। रञ्जनी चमरी कृष्णवल्ली दीर्घफला च सा । विदूलिका कृष्णरुहा ग्रन्थिवल्ली सुवल्ल्यपि ॥४४०॥ तरुवल्ल्यथ कण्डूरा वयस्थाऽरण्यवासिनी । अत्यम्लपर्णी तीक्ष्णा च वल्ली सूरणवल्ल्यपि ॥४४१॥ शङ्खपुष्पी तु शङ्खाह्वा सुपुष्पा कम्बुमालिनी । पीतपुष्पा तु भूलग्ना मेध्या मलविनाशिनी ॥४४२॥ श्रावर्तकी तिन्दुकिनी विभाण्डा च विषाणिका । चर्मरगा मनोज्ञाथ कर्णस्फोटाई चन्द्रिका ॥४४३॥ चित्रपर्णी स्फोटलता त्रिपुरा चन्द्रिकाप्यथ । महावल्ली काष्ठवल्ली कटवी कटुकवल्लिका ॥४४४॥ कटुश्चापि सुवल्ली च सुकाष्ठा पशुमेहनी । तोयवल्ली वृक्षरुहा घनवल्ल्यमृतस्रवा ॥४४५॥ १ चB २ गण्ड्राBk ३ मित्यपिB ४ पुष्पीB स्पी (स्फी) ताB | त्रिपुटा ! • चकीक(Ck