________________
२६६ केशवकृतः कल्पद्रुकोशः
श्वेताऽपराजिता श्वेता नीलपुष्पी' गवादिनी। महानीला नीलगिरि कर्णी स्यान्नीलसंध्यका ॥४१६॥ व्यक्तगन्धा मोरटस्तु कर्णपुष्पो मधुस्रवः । धनमूलः पीलुपत्रः पुरुषः क्षीरमोरटः ॥४२०॥ दीर्घमूलोप्यथ द्रोणी करम्भा पुष्पमञ्जरी । इन्दीवरा युग्मफला दीर्घवृन्तोत्तमारणी ॥४२१॥ नलिका वृत्तवल्ली तु वस्तमेषान्त्रिका च सा । वृषगन्धाथ यज्ञार्हा यज्ञश्रेष्ठा धनुर्लता ॥४२२॥ स्त्री सोमयज्ञगुल्मेभ्यो वल्ली सैव द्विजप्रिया । सोमक्षीरा महागुल्मा सोमपर्याय इत्ययम् ॥४२३॥ पुंसि स्यात्सप्रतिपदमारभ्यापूर्णमासकम् । प्रत्यहं यत्र पुष्पाणामुदयस्तत्तयः पुनः ॥४२४॥ श्रादर्शमथ तद्भदा अंशुमान्रजतप्रभः । कल्याणकारकन्दोन्य श्राज्यगन्धश्च कन्दवान् ॥४२५॥ चन्द्रमाः कनकाभासः सर्वदा स जलेचरः । चित्रितः पाण्डुरश्चापि सर्पनिर्मोकसंनिभौ ॥४२६॥ वृक्षायालम्बितावेतौ मुञ्ज वांल्लशुनच्छदः । तााहितोऽपि श्वेताक्षो गायत्रस्त्रष्टुभः पुनः ॥४२७॥
१ पुष्पाB २ टिरिB ३ सन्धिकाB ४ वृन्ता च सारणीB ५ वस्तुB ६ गुल्मB • पनB नब्जतः पB १० मूजवानित्यन्यत्र ।