________________
२६० केशवकृतः कल्पद्रुकोशः धेनुदुग्धप्रदश्चापि तृणाढ्य तु मृगप्रियम् । पत्राढ्यं पर्वततृणं वंशपत्री तु जीरिका ॥३६५॥ जीर्णपत्र्यथ मन्थानो हरितो दृढमूलकः । पल्लीवाहो दीर्घतृणः सुपत्रस्ताम्रवर्णकः ॥३६६॥ अम्लकाण्डं पटुतृणं तृणाम्लं लवणात्तृणम् । कनिष्ठिकं' तु शूकाढ्य शूकं शूकतृणार्थकम् ॥३६७॥ पण्यगन्धोऽस्त्रियां पत्रा कङ्गुणी पण्यदा च सा । दीर्घकाण्डः काण्डगुण्डच्छत्रगुंछस्त्रिकोणकः ॥३६८।। नीलपत्रस्त्रिधारः स्यावृत्तगुण्डो जलाश्रयः । गुण्डोऽथ गुण्डकन्दः स्यास्त्रियां पुंसि कसेरुकः ॥३६॥ इक्षुमुस्ता सूकरष्टा सुगन्धा गन्धकन्दला । चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा ॥३७०॥ गुण्डासिनी तु गुण्डाला चिपिटा गुंछमूलिका । तृणपणी जलावासा पृथुला नवविष्टरा ॥३७१॥ जलस्रवा' मृदुलता पिच्छिला महिषी प्रिया । अशाखा शूलपत्री च स्याच्छली धूम्रमूलिका ॥३७२॥ पिरिपेल्लं प्लवं वन्यं शतपुष्पं पुटंनटम् । गोन गोपुटं दासपुटं स्याज्जीर्णबुन्नकम् ॥३७३॥ , प्ठकं २ कम्गुनीB ३ सुबीजाB ४ पर्णस्तलाB ५ श्रवा ६ परिपिल्लं ७ कुटंB = दासपुरमित्यन्यन्न ।