________________
केशवकृतः कल्पद्रुकोशः २६१ 'हिगुलस्तु नदीकान्तो जलजो दीर्घपत्रकः । नदीजो निचुलो रक्तः कामुकनाथ चण्डिका ॥३७४॥ छिन्नाद्भवाऽमृतलता गडूची मधुपर्णिका। ज्वरारिरमरा श्यामा विशल्यापि रसायनी ॥३७॥ वत्सादनी कुण्डलिनी वयस्थाऽमृतसंभवा । भिषप्रिया सुरकृता जावन्ती सोमवल्ल्यपि ॥३७६॥ नागपुत्र्यथ कन्दोत्थाऽमृता पिण्डगडचिका। बहुछिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ॥३७७॥ मूर्वाऽमर्यमरा दिव्यलता तिक्ता मधूलिका । मधुश्रेणी भिन्नदशा त्रिपर्णी मधुमत्यपि ॥३७८॥ देवी मधुमती देवश्रेणी सैव सुखोषिता ।। पृथकपर्णी च गोकर्णी लघुपर्ण्यपि मोरटा ॥३७६॥ तेजस्विनी मधुदला दहना गोपवल्लिका । पीलुपी स्निग्धपर्णी रक्तला च मधुस्रवा ॥३८॥ ज्वलिन्यथ पटोलः स्याज्ज्वलनः कर्कशच्छदः । राजनामा कटुफलः पाण्डुः पाण्डुफलश्च सः ॥३८१॥ पञ्चराजीफलो नागफलोऽमृतफलश्च सः। कुष्ठकण्ड्वो ररिबीजगर्भः स्यात्कासमर्दनः ॥३८२॥
१ हिंज (ज) लस्तुB २ गुडूचीB ३ दिनीB ४ कृतो: ५ श्रवा ६ ज्वतिन्यथB ७ कन्दोkc