________________
२८४ केशवकृतः कल्पद्रुकोशः 'सक्तुफलापि विजया शान्ता चाप्यपराजिता । शुभाप्यथ शमीरः स्याच्छम्यारु रपि पुंस्युभौ ॥३१३॥ अथ वधूरकवरौ कण्टालुदीर्घकण्टकः । पंक्तिबीजो गुग्गुलामो गोशृङ्गस्तीक्ष्णकण्टकः ॥३१४॥ कफान्तकोऽजभद्रःस्याद् दृढबीजोप्यथापरः । शुकशाकः स्थूलकण्टश्छत्राको जालवरः ॥३१५॥ रन्धकण्टस्तनुच्छायो थारिमेदो रिमेदकः । गोधास्कन्धोपीरिमेदः पूतिमेदोऽहिमारकः ॥३१६॥ पलाण्डुस्तु कटुः पञ्चवर्द्धनः पञ्चरक्षकः । हस्ताञ्जनविधौ शस्तो जीर्णज्वरहरश्च सः ॥३१७॥ पञ्चकश्चाथ शूलारिौरवो विषकण्टकः । तीक्ष्णकण्टः क्रोष्टुफलोऽतिगन्धस्तापसद्रुमः ॥३१८॥ पूतिगन्धस्तैलफलस्तनुपत्रोऽनिलान्तकः । पुस्त्रियोरिङ्ग दीपुंसीगुदपत्रो मुनिद्रुमः ॥३१६ ॥ प्रन्थिलः कृकरो गूढपत्रः स्यात्कररः पुनः । करीरोऽपि च कारीरो' निःपत्रस्तीक्ष्णकण्टकः ॥२०॥ सुधा स्नुही स्नुस्त्रियः स्युः क्षीरी निस्त्रिंशपत्रकः । शाखापत्रो महावृक्षः सेहुण्डो वज्रकण्टकः ॥३२१ ॥ १ सक्तूB २ च्छम्बारुB ३ वर्षर:kC ४ पकाण्डुस्तु कुटु:Ck ५ निपत्रB