________________
केशवकृतः कल्पद्रुकोशः २८३ एकादिवीरपर्यायः स्यादथो रक्तकेसरः । पारिभद्रो निम्बतरुमन्दारः पारिजातकः ॥३०॥ कृमिघ्नो रक्तकुसुमो बहुपुष्पोऽथ कण्टकी । खदिरो रक्तसारश्च खाद्यः पत्री क्षितिः स्त्रियाम् ॥३०॥ वक्राङ्गो बालतनयो मुशल्योऽपि मुसल्यवत् । गायत्र्यपि च पुंसि स्यात्सारदुर्दन्तधावनः ॥३०६॥ बालपत्रोऽपि कुष्ठारिमेंध्योऽथ कदरोऽपरः । श्वेतसारः कार्मुकः स्यात्सोमसारः पथिद्रुमः ॥३०७॥ सोमवल्को नेमिवृक्षः कुब्जकण्टक इत्यपि । रक्तसारः सुसारः स्याद्रक्ते विट्खदिरस्तु सः ॥३०८॥ मरुजः सारखदिरः कालस्कन्धोऽपि गोरटः । बहुसारः पत्रतरुरम्भोजारिररिः स्त्रियाम् ॥३०॥ इरिमो वीरमेदश्चाप्यसिमेदश्च मेदकः। ... दाना संदानिका चापि सैवोक्ता खदिरच्छटा ॥३१०॥ शमी तु केशदमनी शान्ता तुङ्गा शुभंकरी। हविर्गन्धा शिवेशाना सुरभिः पापनाशनी ॥३११॥ मङ्गलापि तपस्वीष्टा' मेध्या दुरितपावनी । सुभद्रा शङ्ककलिका भद्रासक्तु फली शिवा ॥३१२॥ १ पमःB २ मोदटः B ३ ज्येरिB ४ धोB ५ मयाB ६ फलाB