________________
२८२
केशवकृतः कल्पद्रुकोशः
'गरनो गन्धपत्रः स्यात्पूतगन्धः सुरार्हकः । कृष्णवर्वरकः स्वास्यः सुपर्णं देवपर्णकम् ॥ २६६ ॥ स्याद्देवा चीरमाच सूक्ष्मगन्धेभ्य इत्यपि । पर्णं चाथ महानन्दा गन्धाढ्या रामशीतला ॥ २६७॥ रामाथ शाल्मली चापि स्त्रियां शाल्मलिरित्यपि । " चिरजीवी पिच्छलः * स्याच्छाल्मलिन्यपि पूरणी २६८ रक्तोत्पलस्तूलवृक्षो रम्यपुष्पः कटुडुमः । मातोप्यथ श्रवः शृङ्गो रसो मोचा ततः पुनः ॥ २६६ ॥ श्रपि 'पिच्छलसारः स्याल्मलीवेष्ट इत्ययम् । तत्तूलइन्द्रवाताभ्यां तूलं क्लीबे मरुध्वजम् ॥३००॥ ग्रीष्महासं वंशकफं वृद्धसूत्रकमित्यपि । रोहीतको रोहितको रोही लीहनिबर्हणः ॥ ३०९ ॥ सदाप्रसूनो दाडिम्बपुष्पः स्यात्कूट " शाल्मली । कुशाल्मली बृहद्वल्कः स्याद्विरेचन इत्ययम् ॥ ३०२ ॥ सितपुष्पोप्येकवीरो महावीरः सुवीरकः । रोहितेयो रौहतः " स्यात्तद्वद्रौहित इत्यपि ॥ ३०३ ॥
१ गरघो k C २ पूतेर्गन्धः B ३ सस्यात् B ४ स्थिर B ५ पिच्छिलः B ६ पुष्पक टुटुमः kC ७ पिच्छिल B ८ जः B & मित्यथ B ११ रौहिणः C
५० कुट B