________________
80॥
का
केशवकृतः कल्पद्रुकोशः २८१ गौरी स्याद्विविधा कृष्णासिताभेदात्फणिजकः । खरपत्रो मरुवको गन्धपत्रः समीरणः ॥२८॥ बहुवीर्यः शीतलकः सुराहो मरिचोऽपि च । जम्बीरः प्रस्थकुसुमो द्विविधोयमथार्जके ॥२८६॥ . क्षुद्रात्पर्णश्च तुलसी कुठेरोऽपि कडिअरः । "पुखार्जकश्चोग्रगन्धः सुमुखस्तु सितार्जके ॥२६॥ पत्रो वटपुटाभ्यां स्याद्वैकुण्ठो भुरिगन्धकः। कृष्णार्जकः कालुमालो मालूकः कृष्णमालुकः ॥२६१॥ दोषक्लेशी विषन्नः स्यात्सुगन्धिर्वनवर्वरी । प्रसन्नकः सूक्ष्मपत्रो निद्रालुः शोफहार्यपि ॥२६२॥ सुमुखो गङ्गपत्री तु गङ्गापत्री सुरङ्गका । पाची मरकतः पत्री मल्ला” हरितपत्रिका ॥२६३॥ अरिष्टा सुरभिश्चाथ बालकोऽस्त्री तु शीतलम् । पर्यायः केशजलयोह्रीवेरं हिरिवेरकम् ॥२६४॥ वरहिष्ठं च बर्हिष्ठमुदीच्यमपि कथ्यते । स्यात्तिक्तं वारिपर्यायं वर्वरः" सुमुखः पुनः ॥२६॥
१ सा द्विविधा kC २ पणिजकः k० ३ रप्रस्थ B४ पुंखा B५ शोक B ६ नाची B ७ मल्ली B ८ शीतलः B & कुश B १० हीरे B ११ वर्वरसुमुख B