________________
२७८ केशवकृतः कल्पद्रुकोशः प्रहसन्ती महाजाती मध्वाट्या चाथ यूथिका । माधवी गणिकाम्बष्ठा' मोदिनी बालपुष्पिका ॥२६२॥ भृङ्गानन्दापि गन्धाढ्या सुगन्धा तु मनोहरा । युवतीष्टा सुवर्णाह्वा शिखण्डी नागपुष्पिका ॥२६३॥ हरिता व्यक्तगन्धा च पीतयूथ्यथ कुंजकः । महासही वृत्तपुष्पः कण्टकाढ्योतिकेसरः ॥२६४॥ विकुलः संकुलः खर्वोथाC) हरिवल्लभः । मुचुकुन्दश्च सुदलो बहुपुष्पः सुपुष्पकः ॥२६५॥ लक्ष्मणो रक्तप्रसवः करुणी ग्रीष्मपुष्प्यपि । रक्तपुष्पा सारुणी स्याञ्चन्द्रवल्ली तु माधवी ॥२६६॥ भृङ्गप्रिया भद्रलता भूमिमण्डलभूषणा । सुगन्धा गणिकारी तु काञ्चनी गन्धपुष्प्यपि ॥२६७॥ अलिमोदा च वासन्ती सास्यान्मदनमोदिनी । मुचुकुन्दस्तु कुन्दोऽपि महागन्धो मनोहरः ॥२६८॥ मदनोऽपि सदातारमुक्ताभ्यः पुष्प इत्यपि । अट्टहासो मनोज्ञः स्याद्वनहासाथ शाम्भवः ॥२६६ ॥ शिवादापीड श्राह्लादो मल्ल्यथेष्टश्च सुव्रतः । बकः पाशुपतश्चापि वसुकः क्रमपूरकः ॥२७०॥
। मौदनी C २ B ३ पीतपुष्पोथ कंजक: B ४ सुगन्धी B ५ महाकुन्दो KC ६ द kc