________________
२७६ केशवकृतः कल्पद्रुकोशः कङ्कोल्लिरपि कङ्कली स्थिरपुष्पस्तु' चम्पकः । अतिगन्धः स्वर्णपुष्पो हेमाह्वः सुकुमारकः ॥२४४॥ वनदीपस्तत्कलिका स्त्रियां स्याद्गन्धमोदिनी । बहुमोदा गन्धफली वनजे क्षुद्रचम्पकः ॥२४५॥ स्यान्नागचम्पकश्चाथ बकुलस्तु विशारदः । मधुपुष्पः सीधुगन्धः स्थिरपुष्पक इत्यपि ॥२४६॥ सुरभिर्धमरानन्दो मद्यामोदश्च शारदी। करकः केसरो धन्वी मन्दमन्दनो गूढपुष्पकः ॥२४७॥ योषास्यमधुरोऽपि स्याद्वीरपुष्पोहलश्च सः । खरपत्रा तु शेकाली शारदी पुष्पवर्षिणी ॥२४॥ केतकी तीक्ष्णपुष्पी स्याद्विफला धूलिपुष्पिका । स्यान्मध्या कण्टकदला शिवद्विष्टा नृपप्रिया ॥२४६॥ स्थिरगन्धा दीर्घपत्रा क्रकचा गन्धपुष्पिका । स्यादिन्दु'कलिकाथान्या कनकप्रसवा च सा ॥२५०॥ हैमी कनकपुष्पात्र कामखड्गदला पुनः। विष्टारुहा छत्ररुहा सुवर्णादपि केतकी । ॥२५१॥ सिन्दूरवीरयोः पुष्पा सुमना तु सुरप्रिया । संध्यापुष्पा राजपुष्पा मनोज्ञा तिलभाविनी ॥२५२॥
१ गन्धस्तुB २ मादश्च k0 ३ मदनाB ४ दद्र ५ छिन्न । ६ मनोज्ञ B