________________
केशवकृतः कल्पद्रुकोशः
नमेरुः ' सुरपुन्नागः सुरेष्टः सुरपर्णिका । सुरतुङ्गः पलाशस्तु किंशुको वक्रपुष्पकः ॥२३५॥ स्यात्पर्णोपज्ञको' वातपोथः पीतद्रुमो ऽपि सः । ब्रह्मवृक्षोऽथ तदभेदे हस्तिकर्णः सुकण्टकी ॥ २३६ ॥ श्वेतस्कन्धः पारिभद्रः सपलाशो भवेदद्विधा । वीवृक्षविभेदेन स्त्रियां किंशुलकेति च ॥ २३७॥ तद्वनेप्यथ पुंनागः पाटलो रक्तपुष्पकः । पुरुषोऽपि तुङ्गो तिलकाह्नस्तु रेचकः ॥ २३८॥ वसन्तसुन्दरोऽरिष्टो बालभूषणमित्यपि । मृतजीव' स्थिरपुष्पो रुहः स्याच्छिन्नदग्धयोः ॥ २३६ ॥
तरुणीकटाक्षकामाथाप्यगस्त्यस्तु मुनिद्रुमः । व्रणारिः शीघ्रपुष्पः स्याद्वक्रपुष्पः सुरप्रियः ॥ २४०॥ दीर्घसस्यः पाटला तु पाटलिर्विषवल्लभा । स्थिरगन्धा तालवृन्ती रक्तपुष्पाम्बुवास्यपि ॥२४१॥ वासन्त्यमाघा कुम्भीकाप्यथाशोकस्तु वञ्जुलः । मधुपुष्पः केलिकः स्याद्रक्तपर्यायपल्लवः ॥२४२॥ दोहदी सुभगचित्र विचित्रः कर्णपूरकः । स्याद्वेमपिण्डयोः पुष्पो नटः कामाधिवासकः ॥२४३॥
३ वातः पोथो CK वानपोत: B
२७५
१ गमेरु: B २ यइके B ५ जीव: B ६ पिण्डयोः पुष्पा (थ) B
४ सकण्टकी B