________________
केशवकृतः कल्पद्रुकोशः २६३ फलार्थः स्यादन्तशठः कपीष्टः करभप्रियः । मङ्गल्योऽपि स्त्रियां नीलमल्लिकाप्यथ तुम्बुरुः ॥१३०॥ वनजः सौरजः सौरः सानुजस्तीक्ष्णवल्कलः । द्विजक्षीणफलस्तीक्ष्णपत्रोऽपि च महामुनिः ॥१३१॥ सुगन्धिः स्यात्स्फुटफलो रुद्राक्षस्तु शिवप्रियः । पावनोक्षश्च सर्पाक्षो नमेरुर्भूतनाशनः ॥१३२॥ विल्वो द्वयोहृद्यगन्धः शाण्डिल्यः श्रीफलः पुनः । शल्वः शलाटुः शैलूषः शैवपत्रः शिवेष्टकः ॥१३३॥ कर्कटाह्वो गन्धपत्रः पत्रश्रेष्ठस्त्रिपत्रकः । दुरारोहो गन्धफलस्त्रिशिखश्च शिवद्रुमः ॥१३४॥ त्रिशाखपत्रोऽपि सदाफलः सत्यफलश्च सः । तूदस्तूलो ब्रह्मकाष्ठं ब्राह्मणेष्टश्च यापकः' ॥१३५॥ सोः पुष्परूपो नीलगुरथ सिञ्चन्तिका स्त्रियाम् । सल्लकी शल्लकी' सल्ली सुगन्धा सुरभिस्रवा ॥१३६॥ शल्लकी हादिनी हादा हादिनी सुरभी रसा । गजभक्षा मुखामोदा सुश्रीका जलतिक्तिका ॥१३७॥ ह्रस्वादङ्करका चस्रफला छिन्नरुहा च सा। अपि गन्धफला चाथ कतकोम्बुप्रसादनः ॥१३८॥
, पावकः० २ वल्लकीKC ३ दाङ्करkc ४ अम्लफलाkc