________________
केशवकृतः कल्पद्रुकोशः २६१ स्याद्वयोर्बदरी कोला कर्कन्धूरपि च स्त्रियाम् । कर्कन्धुश्चापि कर्कान्धून क्लीबे कुवली त्रिषु ॥११२॥ कोलः' कोलिश्च कोली च बदरं वापि पुंसि च । दृढबीजा वृत्तफला फेनिला फलशैशिरा ॥११३॥ सुवीरापि च सौवीरा बालेष्टा सुफला च सा । राजपर्यायबदरी वल्लभा स्तनबीजिका ॥११४॥ पृथुकोलाथ भूसूक्ष्मलघुवल्लीभ्य एव सा। बदरी स्याबहुफला बदराद्वल्लरी फला ॥११५॥ सूक्ष्मा त्पत्रफलार्था स्यादुःस्पर्शा बहुकण्टका । शिखिप्रिया चणार्थात्स्याद्वदर्यथ सुकेसरः ॥११६॥ बीजपूरी बीजपूर्णः पूर्णबीजश्च पूरकः । मातुलुङ्गः केसरान्तो रुचको दन्तुरच्छदः ॥११७॥ सुपूरको बीजफलो जन्तुनो थवनोद्भवा । गन्धाढ्या देवदूती च स्यादत्यम्लरसा च सा ॥११८॥ मधुनः कर्कटी वल्ली बीजपूरार्थका च सा । 'महाफला वर्द्धमाना राचनी तु शिवाऽमृता ॥११॥ धात्रा वयस्थामलकी त्रिषु तिष्यफलाऽमला। १°एमलापि च कायस्था श्रीफला वृत्तसस्यका ॥१२०॥
१ कोलंB२ वृक्षC ३ बलिम्पB ४ वल्लरीB५ पत्र CK ६ चणार्था स्यादिति पाठः सर्वत्र ७ पKC - मधुरःk ६ महामूलाB १० रामला समलाB