________________
२६० केशवकृतः कल्पद्रुकोशः नदीयज्ञार्थयोर्वक्षः सिद्धार्थोऽपि वटी स्त्रियाम् । अमरा शृङ्गिनी क्षीर'काष्ठाप्यथ कपीतनः ॥१०३॥ प्लक्षः प्लवङ्गः प्लवगो गर्दभाण्डः कमण्डलुः । महाबलोऽवरोहद्रुः क्षीरी शृङ्गी सुपार्श्वकः ॥१०४॥ दृढप्ररोहः पुण्ड्रस्तु भिदुरो ह्रस्वपर्णकः । महावरोहोपि जटी मङ्गलच्छाय इत्यपि ॥१५०॥ स्यात्पर्क पर्वयोष्टिष्टी मशकी तु सदाफलः । उदुम्बरः पुष्पशून्यो यज्ञियः सुप्रतिष्ठितः ॥१०६॥ कालस्कन्धः शीतवल्कः क्षीरवृक्षः पवित्रकः । हेमदुग्धः काण्डफलः सौम्यः क्षीरी च काञ्चनः ॥१०७॥ वसुद्रुमो हरिद्राक्षः सौम्यो जन्तुफलश्च सः । सचतुः शीतवृक्षोऽथ लघुपत्रफला स्त्रियाम् ॥१०॥ लघोरुदुम्बरार्था च क्षुद्रोदुम्बरिकाऽपि सा । काष्ठोदुम्बरिका चाथ करपत्रच्छदाऽपरा ॥१०६॥ खरपत्रापि माकण्ठी वान्तिसस्या बृहच्छदा । अथार्यराजपुण्ड्रेभ्य उदुम्बरफलार्थका ॥११०॥ कृष्णोदुम्बरिका काकोदुम्बरी जघनेफला । अजाजी फल्गुनी फल्गु मलयूश्चित्रभेषजम् ॥१११॥
१ काष्ठेB २ पूर्षCK ३ वल्की ४ मार्कण्डी ५ मलपूBC