________________
केशवकृतः कल्पद्रुकोशः २५६ 'रसालारव्याऽमरा मृद्वी गोस्तनी च हिमोत्तरा । फलाभद्रा च कपिला मधुवल्ली मधूल्यपि ॥४॥ शतवीर्या हैमवती काश्मीरी पथिका च सा । सुधारसा दार्घमधुसुभ्यः सस्यार्थका च सा ॥६५॥ हरिता 'हारहराथ सुवृत्ता बीजवर्जिता । अथ कर्मारकः कर्मरकः पीतफलश्च सः ॥६६॥ धाराफलो मुद्गरकः परुषं तु परूषकम् । . . नीलमण्डलमल्पास्थि गिरिपीलु परावतम् ॥१७॥ परुर्नीलफलं चाथ चलपत्रश्च यज्ञियः । शुचिबोधिनीरचैत्यश्राभ्यो द्रवों गजाशनः ॥८॥ अश्वत्थो विष्णुसद्मार्थः पवित्रं गुह्यपत्रकः । मङ्गल्यः श्यामलो विप्रः सत्यः सेव्यः शुभप्रदः ॥६६॥ यक्षोदुम्बरमेतस्य फलेश्वत्थी वनोद्भवा । अश्वत्थसंनिभा क्षुद्रा पवित्रा लघुपत्र्यथ ॥१०॥ वटो जटालो न्यग्रोधोऽवरोहा पादरोहणः । विटपी मण्डपी शृङ्गी'यक्षावासश्च रोहिणः ॥१०१॥ महाच्छायः स्कन्धरुहः क्षीरी रक्तफलः पुनः । कौबेरो बहुपान्नीलः शिफारुट् च वनस्पतिः ॥१०२॥
१ थामराB२ हरB ३ सत्यसेव्य B४ यज्ञाKC