________________
२५२ केशवकृतः कल्पद्रुकोशः गुच्छो गुलुच्छो लुच्छः' स्याद्गुच्छकः स्तबकोऽपि च । गुलुच्छो ग्लुच्छको गुच्छः कुद्मलो मुकुलोन ना ॥३१॥ मकुले पुंसि वा क्लीबे बहुत्वे सुमनः स्त्रियाम् । स्यात् क्लीबे सुमनं पुष्पं प्रसूनं कुसुमोऽस्त्रियाम् ॥३२॥ प्रसवे च सुमं सून कुद्मलो मुकुलोऽस्त्रियाम् । स्फुटः स्मेरो विकसितः स्मितः फुल्लो विजृम्भितः ॥३३॥ वीकाशश्च विकाशश्च वीकासापि विकासवत् । प्रफुल्लोन्मुद्रितोदीर्णा उदोभिदुरमीलितौ ॥३४॥ बुद्धो भिन्नश्च मिषितः श्वसितो ज़म्भवत्यपि । विकस्वरश्च व्याकोशो विकचो हसितार्थकः ॥ ५॥ दलोच्छवसप्रवालोन्मिषाङ्करेभ्य इतच क्रमात् । पल्लवाचाथ निद्राणो मुद्रितो मीलितोऽपि च ॥३६॥ फुल्लार्थाद्विपरीतार्थोऽलसः संकुचिताऽपि च । तान्तः सनिद्रो मिलितस्त्रिष्वेते स्युः स्फुटादयः ॥३७॥ मकरन्दः पुष्परसो मरन्दो मधु न द्वयोः । परागः पुष्पपर्यायरजःपर्याय इत्यपि ॥३८॥ मधूली स्त्रीष्टगन्धि स्यात्सुगन्धिः सौरभोऽपि च । सौरभ्यः सुरभिः पुंसि घाणतर्पण इत्यपि ॥३६॥
___१ ग्लुच्छ:B २ गुज्छ:B ३ ऽस्त्रियाम् ४ प्रसवं च ५ नत:kc