________________
केशवकृतः कल्पद्रुकोशः २५१ समे शाखालते स्कन्धशाखाशाले शिफाजटे। अर्वाग्भागोस्य बुनः स्यानितम्बः स पृथुः पुनः ॥२२॥ पादपर्यायि मूलं स्थान्नेत्रं च चरणोऽस्त्रियाम् । अयं क्लीबे शिरः पुंसि मजा सारश्च पुंस्युभौ ॥२३॥ क्वचिन्मजा स्त्रियां त्वक् स्त्री त्वचा वल्कलमस्त्रियाम् । चोलकं च स्त्रियां छल्लिश्छल्लीच वल्कलं च षण् ॥२४॥ शल्कं चोचमथ स्त्री स्याहारु सामान्यकाष्ठके । रूक्षे कलिञ्जमिध्मं स्यादेध एधः समिस्त्रियाम् ॥२५॥ समिन्धनेन्धने च द्वे निःकुहः कोटरोऽस्त्रियाम् । पत्रं पलाशं पात्रं स्यादलं पर्ण छदः पुमान् ॥२६॥ स्यादथच्छदनं' छादमस्त्रियां बर्हमित्यथ । 'चमरिर्मञ्जरीवाना मञ्जी मञ्जिश्च मञ्जरिः ॥२७॥ वल्लरी वल्लरिश्चापि वल्लरं मञ्जरं त्रिषु। पल्लवोऽस्त्री किसलयं किसलं विसलं पुनः ॥२८॥ चलः पुमान्प्रवालोऽस्त्री कोशीशुङ्गे उभे स्त्रियौ। स्त्रियां माटिस्तुपर्णानामन्तरा व्यापिका शिरा॥२६॥ विस्तारविटपावस्त्री कलिकोत्कलिके स्त्रियौ। कलिः कली उभे तद्वत् क्षारको जालिजालके ॥३०॥
१ स्यादथच्छदनमित्यर्ध पुस्तके विसलं पुनरित्यतःपरस्तादृश्यते २ चमरीB ३ माढिरित्यभिधानान्तरेषु ४ मन्तरन्याधिनीB ५ कल्लीB