________________
२५० केशवकृतः कल्पद्रुकोशः अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि । दुई मोद्रिः कुटानागो नन्द्यावतॊ हरिद्वसुः ॥१३॥ महीपर्यायसहजपर्यायस्तरुरागमः। कराली पुष्पफलद ऊों रूक्षः' पुलाक्यपि ॥१४॥ नगोऽगमः कुठिर्गच्छः कुठारुरपि विष्टरः । वानस्पत्यः फलैः पुष्पादपुष्पात्तैर्वनस्पतिः ॥१५॥ निर्लुटो थाप्यबन्ध्यः स्यात्स च वृक्षः फलेग्रहिः । फलग्रह्यपि सज्ञेयो ह्यमोघफल इत्यपि ॥१६॥ फलिते फलिनोपि स्यात्फलपर्यायवान् फली । नञर्थात्फलपर्यायोऽवकेशी बन्ध्य इत्यपि ॥१७॥ फलपुष्पैविरहित एते वन्ध्यादयस्त्रिषु ।। स्थाणुरस्त्री ध्रुवः शङ्कह खशाखार्थकः चुपः ॥१८॥ "सुपेऽप्रकाण्डे गुल्मः स्यात्स्तम्बोथ व्रततिलता। वल्ली च वल्लितती स्त्रियां वीरुत् प्रतानिनी ॥१६॥ गुल्मिनी चोलपो वेली वेल्लिāल्ली च वीरुधा । व्रततिर्विरुधाचापि गुल्मिनी च विरुत् स्त्रियः ॥२०॥ नगाद्यारोह उच्छाय उत्सेधोप्युच्छयश्च सः । स्कन्धकाण्डप्रकाण्डाश्च मूलाच्छाखावधिस्तरोः ॥२१॥
१ रक्ष:C २ विस्तार:B ३ निलुठो ४ चुपो ५ त्सम्बोkC ६ स्त्रियाम्।