________________
केशवकृतः कल्पद्रुकोशः २४६ पर्यायाद्वाटिकार्था च क्षुद्रारामे प्रसाटिका । पुमानाक्रीड उद्यानं राज्ञः साधारणे वने ॥५॥ स्यादेतदेव प्रमदवनं च प्रमदावनम् । यदन्तःपुरलोकानां क्रीडायोग्यमनाकुलम् ॥६॥ नृपाज्ञया पदच्छेद्यं तन्मल्लवनमुच्यते । वीथ्यालिरावलिः श्रेणी लेखा रिञ्छोलिरावली ॥७॥ श्राली' च पालिरालिश्च शरणी सरणी द्वयोः । शरणिः सरणिः श्रेणिः स्त्रियां राजिस्तु राज्यपि ॥८॥ रेखा लेखा च पङ्क्तिश्च सर्वथा या निरन्तरा । तत्र पङ्क्तिः सान्तराला राजिहींनान्तरालका ॥६॥ वन्या वनसमूहे स्यादङ्करोङ्क्रमस्त्रियाम् । प्रराहोऽभिनवोद्भदे तत्र पर्वसमुद्भवे ॥१०॥ अस्त्री निकुञ्जकुऔ द्वे लतादिपिहितोदरे । वृक्षस्तु विटपी स्कन्धी सीमाको हरितच्छदः ॥११॥ वह्नि पर्यायजन्मार्थो जन्तुरारोहकस्तरुः । कारस्कर उरुद्वीपः पादपो विष्टर स्थिरः ॥१२॥
१ पालिरालिश्वशरणी सरणिः सरणीद्वयोःB २ सलनिःB ३ सर्वेषांB ४ लिकाB ५ भिनवे काण्डेB ६ सीमाङ्को ७ जन्तुरोवह्निपर्यायजन्मार्थो राहकस्तयाB ८ उरुद्वीपोB