________________
केशवकृतः कल्पद्रुकोशः
२
प्रतिरूपं 'प्रतिच्छेदः सवेशनरतिक्रिये शालीनीकरणन्यग्भावने गन्धनसूचने ॥ ३८ ॥ भावः पदार्थो धर्मः स्यात्सत्त्वं तत्त्वं च वस्तु च । वर्धनं छेदनं व्युष्टिः फलमाम्नाय इत्यपि ॥३६॥ संप्रदायोऽथ विश्रम्भो विश्वासोऽथ क्षये क्षिया । ग्रहे ग्राहो वशः कान्तौ रक्षा त्राणे रणः कणे ॥४०॥ व्यधा वेधे पचा पाके विपाकः पचनं पुनः । विश्रामविश्रमौ तुल्यौ हवो हूतौ वरो वृतौ ॥४१॥ श्रोषः लोषे नयो नाये ज्यानिर्जीर्णिमा द्वयोः । स्त्रियौ भ्रमिमी च द्वे स्फातिवृद्धौ च भक्षणे ॥ ४२ ॥ वृत्तेनुवृत्तमावृत्तं प्रीणने तर्पणेऽवनम् । बोधे बोधिः प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्तुतिः स्तवे ॥४३॥ विधा समृद्धौ स्फुरणं स्फुलनं स्फुरितेऽपि च । उत्कर्षोऽतिशये संधिः श्लेषे विषय श्राशये ॥४४॥ क्षिपायां क्षेपणं गीर्णि' गिरी 'गुरणमुद्यमे । उन्नाय उन्नये श्रायः श्रयणे जयने जयः ॥४५॥ निगादो निगदे "मादो मद उद्वेग उमे । विमर्दनं परिमलेऽभ्युपपत्तिरनुग्रहे ॥ ४६ ॥
२३६
१ प्रतिच्छन्दः B २ पक्षये Biक्षतये ३ व्यधाB ४ वृत्तेनुवर्तनं वृत्तंB ५ गुरौB ६ गुरणउद्यमे ७ मदोमाद इति पूर्वमप्युक्तम् ।