________________
केशवकृतः कल्पद्रुकोशः २३७ विषाक्तबाणनिहतौ 'कलौ मृगपक्षिणौ । याञ्चा तु याचना भिक्षाऽभ्येषणाप्यर्दनाऽपि च ॥२०॥ अर्दनी चार्दनिरपि स्त्रियः स्युः प्रार्थनार्थना । अभ्यर्थना भिक्षणा च मार्गणामूः स्त्रियश्च षण् ॥२१॥ अथाप्यानन्दनं चाप्रच्छनं चापि सभाजनम् । ग्रन्थनं ग्रथनं गुम्फः प्रतिपत्तिः प्रगल्भता ॥२२॥ प्रभुता प्रभवन्ती स्यात्संदर्भो रचना न ना । दवथुः परितापः स्यादाक्षिण्यमनुकूलता ॥२३॥ प्रणिपातस्त्वनुनयः प्रणतिः सान्त्वनं पुनः । अपि ग्लानिस्तु क्लमथुरनुतापो विसूरणम् ॥२४॥ ३कल्पानुताप्यको मान्द्यमालस्यं चयने चयः । वर्द्धना वञ्चनापि स्या द्विचेष्टा विक्रमे समे ॥२५॥ अथावृतं त्वाशयः स्यादपज्ञानमपात्ययः । निभालनं निशमनं द्योतनं चावलोकनम् ॥२६॥ निशामनं शिते शातं 'निशितं तेजित समम् । स्यादाशंसनमाघेोषो विगानं वचनीयता ॥२७॥ स्याद्वितर्को विकल्पोऽपि हत्याधानमतिक्रमः । वीप्सा क्रमोथ प्लवनं प्लवोथाप्यवसन्नता ॥२८॥
१ कलजौB २ चाप्रच्छन्नंCK ३ कल्पान्तताप्यकौर कलातुलातुकौ ४ दिवेष्टाविक्रमेष्टमेB ५ निशातं निशितंB ६ प्लवनमाप्लवोथाB