________________
२३६ केशवकृतः कल्पद्रुकोशः ...........''प्रेषणे स्यान्मदे मादोऽथ धारणम् । धरणेथ भरो भारः प्रणयः सान्त्वनापि च ॥११॥ तथा चानुनयोऽथ स्यान्मृगया मृगणा मृगः । स्यान्मार्गणा' मृगो घाते प्याघातश्च विघातकः ॥१२॥ अभिषङ्गास्त्वभीषङ्गः स्यादाक्रोशनमित्यपि । संमूर्छनमभिव्याप्तिः संवेदो वेदना नना ॥१३॥ व्याप्यं तु साधनं कर्म करणं साधकोत्तरम् । स्तनाभोगस्तनभरश्चाजय संगते युतम् ॥१४॥ अपि स्याल्लहुडस्वल्पे सोमालं कुसुमाकरे। पुंस्यसहिः स्त्रियां खाटी खाटिर्गरणगूरणे ॥१५॥ स्नपनं स्नापनं तुल्ये परभागः स्वसंपदि । गुणोत्कर्षोऽपि भगिस्तु वाक्कृतावप्लुते प्लवः ॥१६॥ स्त्रियां श्लिषाङ्कपालिः स्यादङ्कपाल्युपगृहनम् । क्लीबे परीरम्भणं च स्यादालिङ्गनमित्यपि ॥१७॥ श्राश्लेषश्च परीरम्भः संश्लेषः परिरम्भणम् । समुद्रपर्यायगृहं जलयन्त्रगृहे पुनः ॥१८॥ क्रीडाक्रीडकयोर्देवसेवायां सेवकेन यः । स दायो दानं दुर्जातं दुःसमं चासमञ्जसम् ॥१६॥
१ स्यान्मार्गणो RC २ व्याप्तंB ३ संगतपुनःB ४ विकृता वालवे प्लवःB