________________
२२७
केशवकृतः कल्पद्रुकोशः विसंकटो विशालो द्वे वद्रं वडू' बृहत्पृथु । पीनं तु पीवरं पीवा बहरु विपुलं पुनः ॥११५॥ पीवपीवरभूरिष्ठपुष्टे स्थूलानि भूरि च । स्तोकं पत्रमुत्तमल्पं क्षुल्लकं रेखुल्लकं पुनः ॥११६॥ सूक्ष्मं श्लक्ष्णं कृशं दभ्रमथ मात्रा स्त्रियां त्रुटिः । लवलेशकणाः पुंसि स्यादत्यल्पेप्यणुः कणाः ॥११७॥ स्वल्पमल्पं कणीकं च कणिका च कणिः कणी । कणीयोल्पीयमल्पिष्ठमणीयो बहुलं बहु ॥११८॥ प्रभूतं प्रचुरं प्राज्यमदभ्रं पुरुहुः पुरुः । भूयो भूरि स्फिरं गाढं निविडं विरलं पुनः ॥११॥ निविरीशं च भूयिष्ठं पिण्डितं गुणितं हतम् । करम्बितं तु खचितं विरलं शिथिलं श्लथम् ॥१२०॥ गणनीयं गणेयं च संख्यातं गणितं पुनः । सर्वविश्वसमाशेषसमस्तनिखिलानि च ॥१२१॥ अनूनाखण्डसंपूर्णसमग्रसकलानि च । निःशेषाखिलकृत्स्नानि घनं सान्द्रं निरन्तरम् ॥१२२॥ समीपनिकटासन्नसनीडसविधानि च । संनिकृष्टसमर्याद सवेशान्यभितोऽव्ययम् ॥१२३॥ स्याच्चोपकण्ठमभ्यर्णं सदेशाभ्यग्रके पुनः । अभ्यासमभ्याशमपि संसक्ते त्वपदान्तरम् ॥१२४॥ । बहुलकं वृहत् २ वड्रोरु। ३ सुल्लक ४ स्यल्पमित्यर्धे पुस्तके नास्ति
निवरीशंद६ संदेशाB