________________
२२६ केशवकृतः कल्पद्रुकोशः समूढं शोधितं मृष्टं निःशोध्यमनवस्करम् । शून्यं तु वशिकं तुच्छमिरिणं शुन्यमीरिणम् ॥१०६॥ पुंसि क्लीबे नितानं स्यान्मसारं फल्वथापि च । अग्रं प्राग्रं प्राग्रहरमाय्यमग्रीयमग्रियम् ॥१०७॥ मुख्यं वयं वरेण्यं च प्रबहं च प्रबर्हणम् । पराया॑नवराध्यॊ द्वे पूरणः पूरकः समौ ॥१०॥ विनाकृतं विरहितं व्यवच्छिन्न विशेषितम् । भिन्न स्यादथ 'निय॑हे मुक्तं यो वातिशोभनः ।१०। पुष्कलः सत्तमश्चापि श्रेयान् श्रेष्ठो महत्तमः । स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जगः ॥११०॥ सिंहशार्दूलवृषभपुण्डरीकवृषा अपि । वराहधुर्यधौरेयाः सपर्यायाः क्रमादमी ॥१११॥ श्रेष्ठार्थगोचराः पुंसि स्त्रियौ मल्लीमचर्चिके । क्लीबे प्रकाण्डमुद्घश्च तल्लजश्चापि पुंस्युभौ ॥११२॥ सर्व एते प्रशस्तार्थाः स्युरुत्तरपदे स्थिताः । क्लीबेऽप्रधाने तु प्राग्र्यमुपसर्जनमित्यपि ॥११३॥ विशंकटं पृथु महद्विशाला च विसंकटा । स्त्रियां क्लीबे च विकटं पुंसि क्लीबे स्त्रियामिमे ॥११४॥
१ निव्यूह २ चाथाB ३ महीतमःB ४ क्लीत्वप्रधानB ५ तुमाग्न्यKC स्वप्राग्यमिति स्यात् ६ विसंकटंB ७ बहुलकं बृहत्B 5 बड्रोस्।