________________
केशवकृतः कल्पद्रुकोशः २२५ स्याच्चक्षुष्यस्तु सुभगः स्यात्प्रणाय्यस्त्वसंमतः । स्वस्था'नस्थः परान्तुष्टि यः सगोष्ठश्व उच्यते ॥१७॥ दिव्योपपादुका देवा नृगवाद्या जरायुजाः । स्वेदजाः कृमिदंशाद्याः पक्षिसादयोऽण्डजाः ॥८॥ उद्भिजास्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् । मनःपर्यायतो हारि हरं शं रममित्यपि ॥६६॥ सुन्दरं रुचिरं चारु कान्तं वल्गु च पेशलम् । अभिरामं रामवामे मञ्जुलं मञ्जु पेसलम् ॥१०॥ वन्धूरं वन्धुरं तुल्ये पेलवं चापि शोभनम् । रुच्यं चापि च चोक्षं स्यान्मनोज्ञं मञ्जु वजुलम् ॥१०१॥ अपि स्यात्सुषमं चाथाभीप्सितं दयितं प्रियम् । अभीष्ट वल्लग हृद्यमथासेचनकं हि तत् ॥१०२॥ निकृष्ट प्रतिकृष्टावरेफयाप्यावमाधमाः । रोपरेपारमा रेवो निकृष्टः संडमस्त्रियाम् ॥१०३॥ कुप्यकुत्सितावद्यखेटगाणका श्रपि । स्युर्वाच्यलिङ्गा मलिनं कल्मषं च मलीमसम् ॥१०४॥ स्यान्मानं कच्चलं तु स्यान्मलदूषितमित्यथ । निार्णक्तं विमलं वीधं पूतं मेध्यं पवित्रकम् ॥१०५॥
१वस्थाB २ दिव्यौB ३ उद्भिजाइत्यर्धद्वय पुस्तके नास्ति ४ सुन्दरमित्यर्धद्वय पुस्तके नास्ति ५ वल्युर ६ पेशलंB ७ दूष्वर ८ मिकृष्टB