________________
२२८ . केशवकृतः कल्पद्रुकोशः
नेदिष्ठमन्तिकतमं चाव्यवहितमित्यपि । 'सुदूरेप्यायतं दीर्घ वृत्ते निस्तलवत्तले ॥१२५॥ विषमोन्नत स्थपुटं वन्धुरं तून्नताननम् । उच्चे प्रांशून्नतं तुङ्गमुदयमपि वाच्यवत् ॥१२६॥ स्यादुच्चैरुच्चकैर्नीचर्नीचकैय॑क् च नीचकः । वामनो ह्रस्वखौ चावागग्रेऽवनतानते ॥१२७॥ प्रेसोलितस्तरलितो ललितः प्रेसितः पुनः । अरालं वृजिनं जिह्ममूर्मिमन्नतमित्यपि ॥१२८॥ ३स्यादावनतमाविद्धं ननं बन्धूरबन्धुरे । वकं वेकं च कुटिलं 'भुग्न वेल्लितमित्यपि ॥१२६॥ वकं चाथ प्राञ्जलं स्यात्सरलं पगुणं पुनः । अजिह्ममाकुलं दु स्याव्यस्ते प्रगुणमित्यपि ॥१३०॥ अनाकुलं शाश्वतस्तु ध्रुवो नित्यः सनातनः । सदातनश्च स्थास्नुस्तु स्थेयान् स्थिरतरोऽपि च ॥१३१॥ एकरूपतया कालव्यापी कूटस्थ उच्यते । स्थावरं स्थावरादन्यच्चरिष्णु जङ्गमञ्चरम् ॥१३२॥ चराचरं त्रसं द्रङ्ग कम्प्रं चरनकम्पने । चटुलं चपलं लोलं चञ्चलं च चलाचलम् ॥१३३॥
१ सुदूरेइत्यर्धद्वयं पुस्तके नास्ति २ चाव्ययम् ४ स्यादादनत ३ वक ५ भनंB ६ जङ्गमं च चरिष्णु चB ७ समिङ्ग B