________________
२२० केशवकृतः कल्पद्रुकोशः
समावथो विप्रलब्धो वञ्चितो विकृतोऽपि च । ग्रामेयकस्तु ग्रामीण ग्राम्यो ग्रामचरोप्यथ ॥५२॥ दुर्विगाचं दुःप्रधृष्यं विषमं स्थपुटं पुनः । अगम्यमनवस्थं स्यात्समे बहलपीवरे ॥३॥ प्रेषितस्तु विसृष्टः स्यात्प्रहितः परिसृष्टकः । उल्वणस्तूल्करोद्गाढ उद्धतश्चाथ दैष्टिकः ॥४॥ स्यादैवतत्परोऽजिहूमः प्रगुणः प्राञ्जलोप्य॒जुः । सरलः 'प्रोष्यः पथिकः समीचीनः समञ्जसः ॥५५॥ खट्वारूढोऽविनीतः स्यान्मसार मस्सृणो समौ । अयोग्रगण्यो ग्रामण्यः श्रेष्ठः शाल्युत्तमः पुनः ॥५६॥ क्लीबे ऽव्ययं प्रधानं स्यादुपाग्रं प्रमुखं पुनः । उत्तमानुत्तमे तुल्ये स्यात्प्रवेकोऽपि राजघः ॥५७॥ "स्थगस्तीणोप्यथाशंसुराशंसितरि पातुके । पतयालुः संशयालुः स्यात्संशयितरीत्यपि ॥८॥ श्रद्धालुः श्रद्धया युक्ते ग्रहयालुर्ग्रहीतरि। हृदयालुः सहृदये वन्दारुरभिवादके ॥५६॥ लज्जाशीलो ऽपत्रपिष्णुः स्याद्वर्द्धिष्णुस्तु वर्द्धनः । उत्पतिष्णु स्तूत्पतितोऽलंकरिष्णुस्तु मण्डनः ॥६॥
१ प्रोथः। २ न्मसणमसृणौका ३ नुत्तमौ तुल्यौB ४ मृगCK ५ शीले
६ स्तूत्पतिताB