________________
केशवकृतः कल्पद्रुकोशः २२१ भूष्णु विष्णुर्भविता वर्तिष्णुर्वष्णुवर्त्तनौ । निराकरिष्णुः क्षिप्नुः स्यात्प्रभूष्णुस्तु सहाः पुनः ॥६१॥ क्षमावांश्चापि शक्तः स्यादथ रोचिष्णुरोचनौ । शरारुर्घातुको हिंस्रो रुष्टेऽमर्षणरोषणौ ॥६२॥ क्रोधनः कुहनेालू चण्डस्त्वत्यन्तकोपनः । जागरूको जागरिता वासदायी तु शङ्करः ॥६३॥ शरणार्थ्यभिपन्नः स्या'त्सान्द्रः स्निग्धश्च मेदुरः। ज्ञाता तु विदुरो विन्दुर्वेदिताथ नमस्थितः ॥६४॥ श्रपा'चितो नमसितोऽचित श्राचित इत्यपि । विसृत्वरो विस्तृमरो विकासी तु विकस्वरः ॥६५॥ विसारी तु प्रसारी स्याघूर्णितः प्रचलायितः । स्वप्नक शयालुर्निद्रालुर्निद्राणशयितौ पुनः ॥६६॥ सुप्तःश्लथस्तु शिथिलः प्रतीकप्रतिको समौ। प्रतिकूलेऽथापि पुनः पराचीनः पराङ्मुखः ॥६७॥ प्रतीपोथाप्यवा चीनोऽधोमुखेऽप्यथ संमुखे। "संमुखीनोथ देवाङ् देवानञ्चति यः पुनः ॥६॥ सहाञ्चति स सध्यङ यो विष्वाङ विष्वगञ्चति । यस्तिरोञ्चति तिर्यङ स सम्यङ यः सममञ्चति ॥६६॥
१ सान्द्रस्निग्धश्चB २ अयाचितोB ३ श्चितB प्रतीपइत्यर्धद्वयं पुस्तके नास्ति ४ संमुखोप्यथR