________________
केशवकृतः कल्पद्रुकोषः २१३ पानार्थात्पात्रपर्यायमनुतर्षोनुतर्षणम् । वेश्यापतिः पल्लवका भुजङ्गश्च विटश्च सः ॥८॥ उपप्लुतस्तु व्यसनी पञ्चभद्रोप्यवप्लुतः । धूर्तोक्षदेवी कितवो द्यूतकृत्' कृष्णकोहलः ॥६६॥ तथैव द्यूतकारश्च दुरोदरदरोदरौ । अक्षधूतॊ देवसभ्यः सभिकः साभिकोऽपि च ॥१०॥ लग्नकः प्रतिभूयूं तकारकस्तृणमत्कुणः । द्यूतास्त्रियामक्षवती दरोदरदुरोदरे ॥१०१॥ द्यूतबीजं वटी वा ना हिरण्यं च वराटकः । द्वयोर्वराटो वटकः कपर्दः श्वेतकोऽपि च ॥१०२॥ श्वेता कपर्दिका श्वेती चूर्णिः षणकितवं पणः । परिणायस्तु सारीणां समन्तान्नयने स्त्रियाम् ॥१०३॥ शारिद्वयोः स्त्रियां शारी शारोना पाशकः पुनः । अक्षविन्दुत्रिक द्वन्द्वे दुन्दुभी दुन्दुभिः स्त्रियौ ॥१०४॥ अपि स्यात्फलकः पुंसि ततः क्लीबे तु पुंसि वा । अष्टापदं सारिफलं पणद्यूतं समाह्वयः ॥१०५॥ कृतं द्वापरमित्याद्यास्तद्भदाः स्युरनेककाः। स्याच्चञ्चुरी" तिन्तिडी च पञ्चमीसारिशृङ्खला ॥१०६
१ कृष्टB २ दैवB ३ पुनःB ४ शारीणांB मयनार ६ द्वयेCK ७ स्कलक:B ८ शारिB प्राणिB १० उन्नेयास्युरनेकशःB ११ चम्बुडीB
१२ शारिB