________________
२१२ केशवकृतः कल्पद्रुकोशः
अरिष्टं' कश्यं तत्रैव शालिपिष्टकृता सुरा । मैरेयमस्त्रियां क्लीबे माध्वं माधूकमस्त्रियाम् ॥८६॥ मधूकपुष्परसजा माध्वी साथ गुडोद्भवा । गौडी न ना शर्करोत्थं शार्करं स्यात्तदैक्षवम् ॥१०॥ मृद्वीभवं स्यान्मार्कीकं तत्फालमक्षवल्कजम् । श्राक्षं सर्वे सीधवः स्युः शीतोष्णादिविभेदतः ॥११॥ पक्कापक्वविभेदेन चतुर्दा तद्भिदा श्रथ । कादम्बरी नारिकेलतालखर्जूरसंभवा ॥२॥ एवं बहुविधं मद्यं देशदेशसमुद्भवम् । कैलातादि समुन्नेयमथ भक्षणचक्षणे ॥१३॥ उपदंशोवदंशः स्यान्मद्यपायनमित्यपि । शुण्डापानं मदस्थानं मधुवारा अनुक्रमाः ॥४॥ जाङ्गलो जगलः पङ्के मद्यसंधानमासुतिः । पासवो भिषवोऽपि स्यात् किण्वं तु मद्यबीजकम् ॥६५॥ नग्नहुर्नग्नहः पुंसि सुरामण्डाग्रभागके । क्वापि कारोत्तरः कारोत्तमः स्यात्पुनरित्यपि ॥१६॥ स्त्रीप्रसन्ना षणापानं पानगोष्ठी स्त्रियामियम् । स्युगल्वर्कश्च रसकश्चषकश्चास्त्रियामिमे ॥७॥
१ अरिष्ट-मित्याद्यद्वय पुस्तके न दृश्यते २ कैलासादिB ३ पान ४ मधिस्थानB ५ मङ्गलःB ६ प्रसन्न