________________
केशवकृतः कल्पद्रुकोशः २११ उपमार्चा प्रतिनिधिः पुंसि प्रतिकृतिः स्त्रियाम् । प्रतिबिम्ब प्रतिमानमुपमानं नपुंसकम् ॥८॥ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् । साधारणः समानश्च ते तूत्तरपदे स्थिताः ॥१॥ निभसंकाशनीकाशप्रतीकाशोपमादयः । कर्मण्यातु विधा भृत्या भृतिः' स्त्री कर्मवेतनम् ॥२॥ भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि । स्त्रियां कुटी तु तरला परिउन्मादिनीवती ॥३॥ गन्धोत्तमेरा मदिरा मदिष्ठा वारुणी हला। प्रसन्ना मदना हाला काचमाची परिस्रुता ॥४॥ वाल्कली कपिशा वीरा काहला कालवाब्धिजा। शुण्डा दैत्या देवसृष्टा माधवी मद्यमस्त्रियाम् ॥८॥ कत्तोर्य हार हरं च कापिशायनमिया॑प । चषको रसकः सीधुरस्त्रियां कापिशं च शण॥८६॥ हालाहलोऽस्त्रियां चापि माधवी माधवोपि च । मदो मध्वासवस्तुल्यौ मधु माध्वीक इत्ययम् ॥८७॥ कपिनाशनमाध्वीके' स्यादि"रा गन्धमादनी । श्रासवोलिः पुमान् क्लीबे कल्पमासुतिकृन्मधु ॥८॥
१ भर्म: २ दनावती: ३ काल्कलीB ४ वार्धजाB ५ देवसृष्टाB ६ कृतोऽय'B ७ हारहरं ८ कोCK , माध्वी चB १. कपिलाशनB ११ मुदिराB