________________
२५० केशवकृतः कल्पद्रुकोशः
तूलस्फोटनधन्वर्थ पिञ्जनी तूलशोधिनी । पिचुः पुंस्यस्त्रियां तूलं वादरं तन्तुकारणम् ॥७१॥ कपाललासिका तूललासिका पितिकापि च । तर्कः स्त्रियां पुनः क्लीबं तद्वत् कर्त्तनसाधनम् ॥७२॥ वर्तनी तूलपीठी च तर्कुशाणस्तु जामिकः । त्रिषु द्वारायणं सूत्रपर्णं यत्तेन वेष्टयते ॥७३॥ निर्वेष्ट'नं नाडिनीरमेकाष्ठी तूलशर्करा । नाराज्येषणिकाथ स्यात् संपुटस्तु समुद्गकः ॥७४॥ त्रिषु पेटा पेटिका स्त्री पेटिकः पेटकोऽस्त्रियाम् । स्यान्मञ्जूषा मञ्जुषिका पेडा पेडिरुभे समे ॥७॥ मञ्जूषापि स्त्रियां चाथ द्वयोर्विवधवीवो । पर्याहारो भरो भारोप्यथापि स्या विहङ्गमा ॥७६॥ विहङ्गिका भारयष्टिस्तदालम्बिनि जालके । शिक्य क्लीवे पुंसि काचष्टकोऽ स्त्री ग्रावदारणः ॥७७॥ वासी तु तक्षणी पत्रदारकः क्रकचोस्त्रियाम् । करपत्रं पुनः क्लीबे शिल्पं कर्मकलादिकम् ॥७॥ स्यादयःप्रतिमा सूर्मी शूर्मी स्वर्णविनिर्मिता । हरिताथ प्रतिच्छाया प्रतिमा प्रतियातना ॥७॥ १ धन्वर्थाB २ पिनिकाB ३ सामक:B ४ निवेष्टन नाडिचीरमेकाष्टी तल
५ विहंनभा