________________
१६८ केशवकृतः कल्पद्रुकोशः स्फटी तु स्फटिकी' श्वेता रङ्गाङ्गा रङ्गदा पुनः । अपि रङ्ग दृढा चाथ खटिनी खटिका खटी ॥५८६॥ २ सितधातुर्धवलमृदय क्षीरी तु दीप्तिकः । ४ वज्रभोपि च गोमेदसंनिभः सौध इत्यपि ॥५८७॥ स्याद्दुग्धी दुग्धपाषाणोप्यथ कर्पूरनामतः । मण्यन्तः सच कर्पूरमणिः स्यादेवमेव तु ॥५८८॥ आखुनाम *पुरः कार्य मतः पाषाण इत्यपि । स च स्यादाखुपाषाणो लोहसंकरकारकः ॥५८६॥ ककुष्ठं विमलं स्वच्छं तारहेमाभमित्यथ । माणिक्य शोणरत्नं च तरुणीरत्नमित्मपि ॥५६॥ शृङ्गारि रक्तमाणिक्यं रागहृद्रत्नमित्यपि । तत्र रक्त पद्मरागोऽरुणे सौगन्धिकोऽस्त्रियाम् ॥५६१॥ कुरुविन्दस्तु पीते स्यादति रक्तेथ नीलके । गन्धिनीलं चाथमुक्ता स्त्रियां सौम्यापि मुक्तिका ॥५६२॥ तारोऽस्त्रियां शुक्तिमणिः स्यात् पुंसि च रसोपलः । क्लीबे मुक्ताफलं स्वच्छं बिन्दु रत्नं च मौक्तिकम् ॥५६३ शौक्तिकेय शीतलं स्यादम्भःसारं च नीरजम् । अपि स्याञ्चन्द्ररत्नं च लक्षहमवतं शुभम् ॥५६४||
१ स्फाटिका शितB ३ मृत अधB ४ वज्रानोB५ धु (ध) :B६ कारकाःB ७ कङ्कष्टंB रक्तोB ६ विदुB