________________
केशवकृतः कल्पद्रुकोशः १९७ कृतकं बालभैषज्यं दार्वीक्वाथ समुद्भवम् । रसनाभामिसारौ द्वावस्त्रियां रसराट पुमान् ॥५७७॥ रीत्यां तु धम्यमानायां यत् किटं तद्रसाञ्जनम् । तदभावेऽपि कर्तव्यं दाक्विाथसमुद्भवम् ॥५७८ वल्मीक 'सारं सौवीरसारं स्रोतोञ्जनं पुनः । कपोतसारं जलजमथ कम्पिल्लकः पुमान् ॥५७६॥ लोहिताङ्गो रेचनः स्याद्रञ्जनो रक्तचूर्णकः । तुत्थं नीलाञ्जनं नीलं 'सामुग मृतोद्भवम् ॥५८०॥ मयूरतुत्थं नीलाश्म मथान्यद्रयकं पुनः। - खपरी खर्परीतुत्य चक्षुष्यं रसकं पुनः ॥५८१॥ अमृतोत्थं च सूतस्तु पारदः पारतो रसः । रसराजो महातेजा रससिंहो महारसः ॥५८२॥ सूतो रसोत्तमो जैत्रश्चपलो रुद्रजः प्रभुः। . शिवाहः शिवबीजाह्वो लोकेशो दुर्द्धरोऽमृतः ॥५८३॥ देवः स्कन्दाङ्गजः स्कन्दो देहतो मृत्युनाशनः । रसधातुहरतेजो यशोदः खेचरः पुनः ॥५८४॥ . व्योमार्थाढे तु गौरीजमनक" बहुपत्रकम् । शृङ्गं स्यादथ वर्णैश्च शुक्लायैस्तच्चतुर्विधम् ॥५८५॥
१ शीर्षB २ कम्पिलक: ३ रेचनB ट्रानेB ५ साम्रKC ६ तूभ B ७ दूर्पकर ट्रवकं ८ कर्परीB तुल्येB १० यशादे:B ११ ज ताम्रकB